अप्रियः अंशः गौणः – हरिश्चन्द्रः - सम्भाषणसन्देशः - जुलै - २०२५
कदाचित् केनचन जनेन राज्ञे एकम् अपूर्वं फलं दत्तम् । तत् आप्तमन्त्रिणे दत्त्वा राजा अवादीत् – "रुचिं परीक्ष्य एतत् फलं कीदृशम् इति उच्यताम्" इति । मन्त्री फलस्य एकं खण्डं मुखे संस्थाप्य – "अहो, अपूर्वता अस्य फलस्य ! एतादृशं फलं मया न खादितम् एव" इति अवादीत् । तदा राजा अवादीत् – "अस्य एकः खण्डः मह्यम् अपि दीयताम्" इति । मन्त्रिणा राज्ञे फलखण्डदाने उत्साहः न दर्शितः । तदा राज्ञा अनुरोधपूर्वकम् एकः फलखण्डः मन्त्रिणः हस्तात् स्वीकृत्य मुखे स्थापितः । सः फलखण्डः नितरां तिक्तः अभूत् । अतः फलखण्डं मुखात् निष्कास्य क्षिप्त्वा तिक्ततानिवारणाय खण्डशर्कराम् आनाय्य खादता राज्ञा मन्त्री पृष्टः – "फलम् अपूर्वम्, एतादृशं मया न खादितम् इति भवता किमर्थम् असत्यम् उक्तम् ?" "मया उक्ते असत्यता क्व ? एतादृशं मया इतः पूर्वं न खादितम् इत्येतत् न मिथ्या । फलदात्रा उक्तम् अभूत् ननु एतत् अपूर्वम् इति ? तदेव उक्तं मया अपि ।..." "फलस्य अधिकतिक्तता अस्ति इति भवता किमर्थं न उक्तम् ?" "महाराज ! फलस्य तिक्तता कश्चन गौणः विषयः । इतः पूर्वं भवता बहूनि उपायनानि दत्तानि । तदा मया बहुधा सन्तोषः प्राप्तः । एतस्मिन् एकस्मिन् एव अवसरे भवता दत्ते तिक्तता अनुभूता । एवं स्थिते पूर्वं प्राप्तान् सन्तोषान् विस्मृत्य, फलस्य तिक्तताम् उक्त्वा दातुः भवतः खेदं कथम् अहं जनयितुम् अर्हेयम् ? अतः मया सः च अंशः न उक्तः ।... बहुषु अंशेषु अनुकूलेषु सत्सु एकस्य अप्रियस्य अंशस्य प्राधान्यं न चिन्तनीयम् । गौणीकरणीयः अंशः सः ।.." – मन्त्री शान्ततया अवादीत् ।
Posted Jul 27, 2026, 7:18 AM UTC